अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 5
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
क्वार्धमा॒साः क्व यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठक्व᳡ । अ॒र्ध॒ऽमा॒सा: । क्व᳡ । य॒न्ति॒ । मासा॑: । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒दा॒ना: । यत्र॑ । यन्ति॑ । ऋ॒तव॑: । यत्र॑ । आ॒र्त॒वा: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.५॥
स्वर रहित मन्त्र
क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः। यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठक्व । अर्धऽमासा: । क्व । यन्ति । मासा: । सम्ऽवत्सरेण । सह । सम्ऽविदाना: । यत्र । यन्ति । ऋतव: । यत्र । आर्तवा: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 5
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(क्व) कहाँ (अर्धमासाः) आधे महीने [पखवाड़े] और (क्व) कहाँ (मासाः) महीने (संवत्सरेण सह) वर्ष के साथ (संविदानाः) मिलते हुए (यन्ति) जाते हैं ? (यत्र) जहाँ (ऋतवः) ऋतुएँ और (आर्तवाः) ऋतुओं के अवयव (यन्ति) जाते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥५॥
भावार्थ - परमेश्वर की ही आज्ञा में यह काल अपने अवयवों सहित वर्तमान है ॥५॥
टिप्पणी -
५−(क्व) कस्मिन् देवे (अर्धमासाः) पक्षाः (यन्ति) गच्छन्ति (मासाः) (संवत्सरेण) वर्षेण (सह) (संविदानाः) अ० २।२८।२। संगच्छमानाः (ऋतवः) वसन्तादयः कालाः (आर्तवाः) ऋतूनामवयवाः। अन्यत् पूर्ववत् ॥