अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 31
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - मध्येज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑। यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥
स्वर सहित पद पाठनाम॑ । नाम्ना॑ । जो॒ह॒वी॒ति॒ । पु॒रा । सूर्या॑त् । पु॒रा । उ॒षस॑: । यत् । अ॒ज: । प्र॒थ॒मम् । स॒म्ऽब॒भूव॑ । स: । ह॒ । तत् । स्व॒ऽराज्य॑म् । इ॒या॒य॒ । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति॑ । भू॒तम् ॥७.३१॥
स्वर रहित मन्त्र
नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः। यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत्परमस्ति भूतम् ॥
स्वर रहित पद पाठनाम । नाम्ना । जोहवीति । पुरा । सूर्यात् । पुरा । उषस: । यत् । अज: । प्रथमम् । सम्ऽबभूव । स: । ह । तत् । स्वऽराज्यम् । इयाय । यस्मात् । न । अन्यत् । परम् । अस्ति । भूतम् ॥७.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 31
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
वह [मनुष्य] (सूर्यात्) सूर्य से (पुरा) पहिले और (उषसः) उषा [प्रभात] से (पुरा) पहिले [वर्तमान] (नाम) एक नाम [परमेश्वर] को (नाम्ना) दूसरे नाम [इन्द्र, स्कम्भ, अज आदि] से (जोहवीति) पुकारता रहता है। (यत्) क्योंकि (अजः) अजन्मा [परमेश्वर] (प्रथमम्) पहिले ही पहिले (संबभूव) शक्तिमान् हुआ, (सः) उस ने (ह) ही (तत्) वह (स्वराज्यम्) स्वराज्य [स्वतन्त्र राज्य] (इयाय) पाया, (यस्मात्) जिस [स्वराज्य] से (परम्) बढ़कर (अन्यत्) दूसरा (भूतम्) द्रव्य (न अस्ति) नहीं है ॥३१॥
भावार्थ - परमेश्वर कार्यरूप काल और उस के अवयवों के पहिले सृष्टि के आदि में प्रलय में भी वर्तमान था। गुण कर्म स्वभाव के अनुसार उसके अनन्त नाम हैं। वह अपनी सर्वशक्तिमत्ता से अनन्यजित् स्वराज्य करता है। उसी की उपासना सब मनुष्य करें ॥३१॥
टिप्पणी -
३१−(नाम) एकं नाम परमेश्वरम् (नाम्ना) अन्येन बहुनाम्ना (जोहवीति) अ० २।१२।३। पुनः पुनराह्वयति (पुरा) पूर्वम् (सूर्यात्) (पुरा) (उषसः) प्रभातकालात् (यत्) यस्मात् कारणात् (अजः) अजन्मा (प्रथमम्) सृष्ट्यादौ (संबभूव) शक्तिमान् बभूव (सः) अजः (ह) एव (तत्) (स्वराज्यम्) स्वतन्त्राधिपत्यम् (इयाय) प्राप (यस्मात्) स्वराज्यात् (न) निषेधे (अन्यत्) (परम्) उत्कृष्टम् (अस्ति) (भूतम्) द्रव्यम् ॥