अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 36
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे। सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठय: । श्रमा॑त् । तप॑स: । जा॒त: । लो॒कान् । सर्वा॑न् । स॒म्ऽआ॒न॒शे । सोम॑म् । य: । च॒क्रे । केव॑लम् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३६॥
स्वर रहित मन्त्र
यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे। सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठय: । श्रमात् । तपस: । जात: । लोकान् । सर्वान् । सम्ऽआनशे । सोमम् । य: । चक्रे । केवलम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३६॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 36
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (श्रमात्) [अपने] श्रम [प्रयत्न] से और (तपसः) तप [सामर्थ्य] से (जातः) प्रसिद्ध होकर (सर्वान् लोकान्) सब लोकों में (समानशे) पूरा-पूरा व्यापा। (यः) जिसने (सोमम्) ऐश्वर्य को (केवलम्) केवल [अपना ही] (चक्रे) बनाया, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [परमात्मा] को (नमः) नमस्कार है ॥३६॥
भावार्थ - जो परमात्मा परम पुरुषार्थी, परम पराक्रमी और परम ऐश्वर्यवान् होकर सब जगत् का अधिष्ठाता है, उस को हम सबका नमस्कार है ॥३६॥
टिप्पणी -
३६−(यः) परमेश्वरः (श्रमात्) परिश्रमात्। प्रयत्नात् (तपसः) सामर्थ्यात् (जातः) प्रादुर्भूतः सन् (लोकान्) (सर्वान्) (समानशे) सम्यग् व्याप (सोमम्) ऐश्वर्यम् (यः) (चक्रे) रचितवान् (केवलम्) सेवनीयम्। आत्मीयम्। अन्यत् पूर्ववत् ॥