अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 35
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यच्च॒ वर्चो॑अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम्। यद्गोष्व॑श्विना॒ वर्च॒स्तेने॒मांवर्च॑सावतम् ॥
स्वर सहित पद पाठयत् । च॒ । वर्च॑: । अ॒क्षेषु॑ । सुरा॑याम् । च॒ । यत् । आऽहि॑तम् । यत् । गोषु॑ । अ॒श्विना॑ । वर्च॑: । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३५॥
स्वर रहित मन्त्र
यच्च वर्चोअक्षेषु सुरायां च यदाहितम्। यद्गोष्वश्विना वर्चस्तेनेमांवर्चसावतम् ॥
स्वर रहित पद पाठयत् । च । वर्च: । अक्षेषु । सुरायाम् । च । यत् । आऽहितम् । यत् । गोषु । अश्विना । वर्च: । तेन । इमाम् । वर्चसा । अवतम् ॥१.३५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 35
Subject - Surya’s Wedding
Meaning -
The lustre, splendour and inspiration that is collected, concentrated and confirmed in the axis and orbits of the stars and in the inspiration of soma, and the power and purity that is in the light of sun rays and the words of Veda, and the generosity that is in cows, with that power and purity, that light and splendour, and that generosity, may the Ashvins, all wedded couples and senior parents bless this bride.