अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भातिजगती
सूक्तम् - शत्रुनाशन सूक्त
ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह। ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः। त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ॥
स्वर सहित पद पाठई॒शाम् । व॒: । वे॒द॒ । राज्य॑म् । त्रिऽसं॑धे । अ॒रु॒णै: । के॒तुऽभि॑: । स॒ह । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । पृ॒थि॒व्याम् । ये । च॒ । मा॒न॒वा: । त्रिऽसं॑धे: । ते । चेत॑सि । दु॒:ऽनामा॑न: । उप॑ । आ॒स॒ता॒म् ॥१२.२॥
स्वर रहित मन्त्र
ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह। ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः। त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥
स्वर रहित पद पाठईशाम् । व: । वेद । राज्यम् । त्रिऽसंधे । अरुणै: । केतुऽभि: । सह । ये । अन्तरिक्षे । ये । दिवि । पृथिव्याम् । ये । च । मानवा: । त्रिऽसंधे: । ते । चेतसि । दु:ऽनामान: । उप । आसताम् ॥१२.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 2
Translation -
Your mastery I know, (your) kingdom, O Trisandhi, together with red ensigns; what in the atmosphere, what in the, sky, and what men (manava) (are) on the earth, let those illnamed ones sit (? upa-as) in the mind (ceta) of Trisandhi.