Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 10
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः शश्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑। यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । शश्व॑त: । महि॑ । एन॑: । दधा॑नात् । अम॑न्यमानान् । शुर्वा॑ । ज॒घान॑ ॥ य: । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । य: । दस्यो॑: । ह॒न्ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१०॥


    स्वर रहित मन्त्र

    यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान। यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । शश्वत: । महि । एन: । दधानात् । अमन्यमानान् । शुर्वा । जघान ॥ य: । शर्धते । न । अनुऽददाति । शृध्याम् । य: । दस्यो: । हन्ता । स: । जनास: । इन्द्र: ॥३४.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 10

    टिप्पणीः - १०−(यः) परमेश्वरः (शश्वतः) बहून्-निघ०३।१। (महि) महत् (एनः) पापम् (दधानान्) धरतः (अमन्यमानान्) अज्ञानिनः। शठान् (शर्वा) नुडभावः। शरुणा। शासनरूपवज्रेण (जघान) नाशितवान् (यः) (शर्धते) शृधु शब्दकुत्सायाम्, अपमाने उत्साहे च-शतृ। अपमानं कुर्वते (न) निषेधे (अनुददाति) आनुकूल्येन प्रयच्छति (शृध्याम्) शृधु उत्साहे-क्यप्। शर्धो बलनाम-निघ०२।९। उत्साहम् (यः) (दस्योः) परपदार्थापहारकस्य (हन्ता) घातकः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top