Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 6
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । र॒ध्रस्य॑ । चो॒दि॒ता: । य: । कृ॒शस्य॑ । य: । ब्र॒ह्मण॑: । नाध॑मानस्य । की॒रे: ॥ यु॒क्तऽग्रा॑व्ण: । य: । अ॒वि॒ता । सु॒शि॒प्र: । सु॒तऽसो॑मस्य । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.६॥


    स्वर रहित मन्त्र

    यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः। युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । रध्रस्य । चोदिता: । य: । कृशस्य । य: । ब्रह्मण: । नाधमानस्य । कीरे: ॥ युक्तऽग्राव्ण: । य: । अविता । सुशिप्र: । सुतऽसोमस्य । स: । जनास: । इन्द्र: ॥३३.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 6

    टिप्पणीः - ६−(यः) परमेश्वरः (रध्रस्य) स्फायितञ्चिवञ्चि०। उ०२।१३। रध हिंसासंराद्ध्योः-रक्। समृद्धस्य। धनिकस्य (चोदिता) प्रेरकः (यः) (कृशस्य) दुर्बलस्य (यः) (ब्रह्मणः) वेदज्ञानिनः पुरुषस्य (नाधमानस्य) नाधृ याच्ञोपतापैश्वर्याशीःषु-शानच्। ऐश्वर्ययुक्तस्य (कीरेः) अ०२०।१७।१२। गुणव्याख्यातुः (युक्तग्राव्णः) युज समाधौ-क्त। अन्येभ्येऽपि दृश्यन्ते। पा०३।२।७। गॄ शब्दे विज्ञापे स्तुतौ च-क्वनिप्। अभ्यस्तयोगस्य पण्डितस्य (यः) (अविता) रक्षकः (सुशिप्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। शेवृ सेवायाम्-रक्, पृषोदरादित्वाद् रूपसिद्धिः। सुसेवनीयः (सुतसोमस्य) षु गतौ प्रसवैश्वर्ययोश्च-क्त, सोमो मोक्षः। प्राप्तमोक्षस्य। अन्यत् गतम् ॥

    इस भाष्य को एडिट करें
    Top