अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 3
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑। यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । य: । गा: । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ॥ य: । अश्म॑नो: । अ॒न्त: । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.३॥
स्वर रहित मन्त्र
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य। यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । य: । गा: । उत्ऽआजत् । अपऽधा । वलस्य ॥ य: । अश्मनो: । अन्त: । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । स: । जनास: । इन्द्र: ॥३३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र का मिलान करो-अथर्व-२०।९१।१२॥३−(यः) इन्द्रः (हत्वा) हन हिंसागत्योः। गत्वा। व्याप्य (अहिम्) आङि श्रिहनिभ्यां ह्रस्वश्च। उ०४।१३८। आङ्+हन हिंसागत्योः-इण्, डित्। आहन्तारम्। समन्ताद् गन्तारं मेघम्-निघ०१।१०। (अरिणात्) री गतिरेषणयोः-लङ्। अगमयत् (सप्त) सप्तसंख्याकान् (सिन्धून्) स्यन्दमानान् समुद्रान् इव भूर्भुवः स्वर्महो जनस्तपः सत्यमिति सप्तलोकान् संसारस्य अवस्थाविशेषान् (यः) (गाः) पृथिवीः (उदाजत्) अज गतिक्षेपणयोः-लङ्। उत्तमतया चालितवान् (अपधा) आतश्चोपसर्गे। ण०३।१।१३६। अप+दधातेः-कप्रत्ययः। सुपां सुलुक्०। पा०७।१।३९। विभक्तेर्डा। अपधः। हर्षेण धारकः (वलस्य) सामर्थ्यस्य (यः) (अश्मनोः) व्यापकयोर्मेघयोः पाषाणयोर्वा (अन्तः) मध्ये (अग्निम्) विद्युतम् (जजान) उत्पादयामास (संवृक्) वृजी वर्जने-क्विप्। संवर्जकः। शत्रूणां निवारकः (समत्सु) अ०२०।११।११। सङ्ग्रामेषु। अन्यद् गतम् ॥
इस भाष्य को एडिट करें