अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 16
जा॒तो व्यख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य। स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठजा॒त: । वि । अ॒ख्य॒त् । पि॒त्रो: । उ॒पस्थे॑ । भु॒व॒: । न । वे॒द॒ । जनि॒तु: । परस्य॑ ॥ स्त॒वि॒ष्यमा॑ण: । नो इति॑ । य: । अ॒स्मत् । व्र॒ता । दे॒वाना॑म् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१६॥
स्वर रहित मन्त्र
जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य। स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥
स्वर रहित पद पाठजात: । वि । अख्यत् । पित्रो: । उपस्थे । भुव: । न । वेद । जनितु: । परस्य ॥ स्तविष्यमाण: । नो इति । य: । अस्मत् । व्रता । देवानाम् । स: । जनास: । इन्द्र: ॥३४.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१६−(जातः) प्रकटः सन् (वि अख्यत्) वि अख्यातोऽभवत् (पित्रोः) अस्माकं मातापित्रोः (उपस्थे) समीपे (भुवः) भू सत्तायाम्-क्विप्। भवन्ति उत्पद्यन्ते सन्ताना यस्यां सा भूः। द्वितीयार्थे षष्ठी। भुवम्। जननीम् (न) निषेधे (वेद) जानाति (जनितुः) जनितारम्। जनकम् (परस्य) परम्। स्वस्माद् भिन्नम् (स्तविष्यमाणः) लृटः सद् वा। पा०३।३।१४। ष्टुञ् स्तुतौ-लृटः शानच्, कर्मणि प्रयोगः। स्तूयमानः (नो) न-उ। न इति सम्प्रत्यर्थे-निरु०७।३१। उ एवार्थे। इदानीमेव (यः) परमेश्वरः (अस्मत्) षष्ठ्यर्थे पञ्चमी। अस्माकम् (व्रता) व्रतानि। कर्माणि-निघ०२।१। (देवानाम्) विदुषां मध्ये। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें