अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 7
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयस्य॑ । अश्वा॑स: । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑: । यस्य॑ । ग्रामा॑: । यस्य॑ । विश्वे॑ । रथा॑स: ॥ य: । सूर्य॑म् । य: । उ॒षस॑म् । ज॒जान॑ । य:। अ॒पाम् । ने॒ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.७॥
स्वर रहित मन्त्र
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः। यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
स्वर रहित पद पाठयस्य । अश्वास: । प्रऽदिशि । यस्य । गाव: । यस्य । ग्रामा: । यस्य । विश्वे । रथास: ॥ य: । सूर्यम् । य: । उषसम् । जजान । य:। अपाम् । नेता । स: । जनास: । इन्द्र: ॥३३.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यस्य) परमेश्वरस्य (अश्वासः) तुरङ्गाः (प्रदिशि) प्रकृष्टायामाज्ञायाम् (यस्य) (गावः) धेनुवृषभादयः पशवः (यस्य) (ग्रामाः) मनुष्यसमूहाः (यस्य) (विश्वे) (रथासः) विहारसाधनाः पदार्थाः (यः) (सूर्यम्) सवितृमण्डलम् (यः) (उषसम्) प्रत्यूषकालम् (जजान) उत्पादितवान् (यः) (अपाम्) जलानाम् (नेता) प्रापकः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें