अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 13
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न्। यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । स॒प्तऽर॑श्मि: । वृ॒ष॒भ: । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ॥ य: । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑बाहु: । द्याम् । आ॒ऽरोह॑न्तम् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१३॥
स्वर रहित मन्त्र
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्। यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । सप्तऽरश्मि: । वृषभ: । तुविष्मान् । अवऽअसृजत् । सर्तवे । सप्त । सिन्धून् ॥ य: । रौहिणम् । अस्फुरत् । वज्रबाहु: । द्याम् । आऽरोहन्तम् । स: । जनास: । इन्द्र: ॥३४.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यः) इन्द्रः (सप्तरश्मिः) अ०९।।१। सप्त आदित्यरश्मयः-निरु०४।२६।शुक्लनीलपीतादिवर्णाः सप्तकिरणाः सन्ति यस्य सः। सूर्यलोक इव। (वृषभः) सुखस्य वर्षिता (तुविष्मान्) बलवान् (अवासृजत्) विमुक्तवान् (सर्तवे) गन्तुम् (सप्त) (सिन्धून्) म०३। स्यन्दमानान् समुद्रान् इव भूरादिसप्तलोकान्, संसारस्यावस्थाविशेषान् (यः) (रौहिणम्) रुहेश्च। उ०२।। रुह बीजजन्मनि प्रादुर्भावे च-इनन्, प्रज्ञादित्वादण्। रौहिणो मेघनाम-निघ०१।१०। उत्पादनशीलं मेघम् (अस्फुरत्) स्फुर संचलने। संचालितवान् (वज्रबाहुः) वज्रवत् सारभूताभ्यां बाहुभ्यामुपेतः शूरुपुरुष इव (द्याम्) आकाशम् (आरोहन्तम्) अधितिष्ठन्तम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें