अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 12
यः श॑म्ब॑रं प॒र्यत॑र॒त्कसी॑भि॒र्योऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑। अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । शम्ब॑रम् । परि॑ । अत॑र॒त् । क॑सीभि॒: । य: । अचा॑रु । का॒स्ना । अपि॑बत् । सु॒तस्य॑ ॥ अ॒न्त: । गि॒रौ । यज॑मानम् । ब॒हुम् । जन॒म् । यस्मि॑न् । आमू॑र्च्छ॒त् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१२॥
स्वर रहित मन्त्र
यः शम्बरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य। अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्नामूर्छत्स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । शम्बरम् । परि । अतरत् । कसीभि: । य: । अचारु । कास्ना । अपिबत् । सुतस्य ॥ अन्त: । गिरौ । यजमानम् । बहुम् । जनम् । यस्मिन् । आमूर्च्छत् । स: । जनास: । इन्द्र: ॥३४.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(यः) इन्द्रः (शम्बरम्) म०११। मेघमिवोपकारिणम् (परि) सर्वतः (अतरत्) तृ तरणे-लङ्। पारं कृतवान् (कसीभिः) अवितॄस्तृतन्त्रिभ्य ईः। उ०३।१८। कस गतिशासनयोः-ईप्रत्ययः। कसतीति गतिकर्मा-निघ०२।१४। ज्ञानैः (यः) (अचारु) चर गतौ-उण्। विभक्तेर्लुक्। अचारुः। अचालुः। निश्चलः (कास्ना) रास्नासास्ना०। उ०३।१। कासृ शब्दे दीप्तौ च-नप्रत्ययः, टाप्, विभक्तेराकारः। कास्नया दीप्त्या (अपिबत्) अन्तर्गतण्यर्थः। पानमकारयत् (सुतस्य) निष्पादितस्य तत्त्वस्य (अन्तः) मध्ये (गिरौ) कॄगॄशृपृ०।४।१४३। गॄ विज्ञापने-इप्रत्ययः। तत्त्वज्ञाने (यजमानम्) (बहुम्) बहुसंख्याकम् (जनम्) मनुष्यसमूहम् (यस्मिन्) ज्ञाने (आमूर्छत्) आङ्+मूर्छा मोहसमुच्छ्राययोः-लङ्। समन्ताद् वर्धितवान्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें