Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 4
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑। श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । य: । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यक॑: ॥ श्व॒घ्नीऽइ॑व । य: । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्य: । पु॒ष्टानि॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.४॥


    स्वर रहित मन्त्र

    येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः। श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    येन । इमा । विश्वा । च्यवना । कृतानि । य: । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यक: ॥ श्वघ्नीऽइव । य: । जिगीवान् । लक्षम् । आदत् । अर्य: । पुष्टानि । स: । जनास: । इन्द्र: ॥३३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 4

    टिप्पणीः - ४−(येन) परमेश्वरेण (इमा) इमानि दृश्यमानानि (विश्वा) सर्वाणि (च्यवना) च्युङ् गतौ-ल्युट्। गच्छन्ति जगन्ति”। लोकान् (कृतानि) रचितानि (यः) (दासम्) दातव्यम् (वर्णम्) रूपम् (अधरम्) निम्नम् (गुहा) गुहायाम्। गुप्तावस्थायाम् (अकः) करोतेर्लुङ् छान्दसं रूपम्। अकार्षीत् (श्वघ्नी) अ०२०।१७।। श्वन्नुक्षन्पूषन्०। उ०१।१९। टुओश्वि गतिवृद्ध्योः-कनिन्+हन हिंसागत्योः-घञर्थे कप्रत्ययः। श्वघ्न-इति। शुनो वृद्धेर्घ्नः प्राप्तिर्यस्य सः। वृद्धिं गतः (इव) यथा (यः) (जिगीवान्) जि जये क्वसु, छान्दसो दीर्घः। विजयी पुरुषः (लक्षम्) लक्ष्यम्। जितपदार्थम् (आदत्) आदत्ते (अर्यः) षष्ठ्येकवचने छान्दसो यणादेशः। अरेः। शत्रोः (पुष्टानि) समृद्धानि धनानि। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top