अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 8
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑। स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ । वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भया॑: । अ॒मित्रा॑: ॥ स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.८॥
स्वर रहित मन्त्र
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः। समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
स्वर रहित पद पाठयम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति । विऽह्वयेते । परे । अवरे । उभया: । अमित्रा: ॥ समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । स: । जनास: । इन्द्र: ॥३४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(यम्) परमेश्वरम् (क्रन्दसी) अ०२।४।३। क्रदि आह्वाने-असुन्, ङीप्, पूर्वसवर्णदीर्घः। क्रन्दस्यौ। आह्वयन्त्यौ द्वे सेने (संयती) इण् गतौ-शतृ। संगच्छमाने (विह्वयेते) विविधमाह्वयतः प्रतिभटान् (परे) प्रकृष्टाः। जेतारः (अवरे) निकृष्टाः। पराजिताः (उभयाः) उभयपक्षाः (अमित्राः) शत्रवः (समानम्) एकम् (चित्) एव (रथम्) यानम् (आतस्थिवांसा) अधितिष्ठन्तौ (नाना) अनेकधा (हवेते) आह्वयतः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें