अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 9
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते। यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑स: । यम् । युध्य॑माना: । अव॑से । हव॑न्ते ॥ य: । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । य: । अ॒च्यु॒त॒ऽच्युत् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.९॥
स्वर रहित मन्त्र
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते। यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
स्वर रहित पद पाठयस्मात् । न । ऋते । विऽजयन्ते । जनास: । यम् । युध्यमाना: । अवसे । हवन्ते ॥ य: । विश्वस्य । प्रतिऽमानम् । बभूव । य: । अच्युतऽच्युत् । स: । जनास: । इन्द्र: ॥३४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(यस्मात्) परमेश्वरात् (न) निषेधे (ऋते) विना (विजयन्ते) विजयं प्राप्नुवन्ति (जनासः) मनुष्याः (यम्) (युध्यमानाः) युद्धं कुर्वाणाः (अवसे) रक्षणाय (हवन्ते) आह्वयन्ति (यः) (विश्वस्य) संसारस्य (प्रतिमानम्) प्रत्यक्षमानसाधनम् (बभूव) लडर्थे लिट्। भवति (यः) (अच्युतच्युत्) अच्युतानाम्, अच्यावयितव्यानां स्थावरादीनां च्यावयिता प्रेरयिता। अन्यद् गतम् ॥
इस भाष्य को एडिट करें