Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 11
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः श्म्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्। ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽ‍अवि॑न्दत् ॥ ओ॒जा॒यमा॑नम् । य: । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.११॥


    स्वर रहित मन्त्र

    यः श्म्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्। ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽ‍अविन्दत् ॥ ओजायमानम् । य: । अहिम् । जघान । दानुम् । शयानम् । स: । जनास: । इन्द्र: ॥३४.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 11

    टिप्पणीः - [सूचना−मन्त्र १२, १६, १७ ऋग्वेद आदि अन्य वेदों में नहीं हैं और इनका पदपाठ गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में भी नहीं दिया। हम स्वामी विश्वेश्वरानन्द नित्यानन्द कृत पदसूची से संग्रह करके स्वरों को यथासम्भव शोधकर यहाँ लिखते हैं, बुद्धिमान् जन विचार लेवें]११−(यः) इन्द्रः परमेश्वरः (शम्बरम्) कोररन्। उ०४।१। शम्ब सम्बन्धने गतौ च-अरन्, यद्वा शम्+वृञ् वरणे-अप्, वस्य बः। शम्बरो मेघः-निघ०१।१०। शम्बरमुदकम्-१।१२। शम्बरं बलम्-२।९। गतिशीलं जलम् (पर्वतेषु) मेघेषु (क्षियन्तम्) निवसन्तम् (चत्वारिंश्याम्) अशूप्रुषिलटि०। उ०१।११। चत याचने-क्वन्, टाप्+रिश हिंसायाम्-क, गौरादित्वाद् ङीष्, छान्दसो नुम्। चत्वाया भिक्षाया रिश्यां नाशिकायाम् (शरदि) वत्सरे (अन्वविन्दत्) अन्तर्गतण्यर्थः। निरन्तरं प्रापितवान् (ओजायमानम्) कर्तुः क्यङ् सलोपश्च। पा०३।१।११। ओजस्-क्यङ् ओजसोऽप्सरसो नित्यमितरेषां विभाषया। वा० पा०३।१।११”। सकारलोपः। ओजो बलम्, तद्वदाचरन्तम्। अतिशयितबलयुक्तम् (यः) (अहिम्) म०३। आहन्तारं समन्ताद् नाशयितारं विघ्नम् (जघान) नाशितवान् (दानुम्) दाभाभ्यां नुः। उ०३।३२। दाप् लवने-नु। छेत्तारम् (शयानम्) कृतशयनमिव वर्तमानम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top