अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 15
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥
स्वर रहित मन्त्र
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती। यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । सुन्वन्तम् । अवति । य: । पचन्तम् । य: । शंसन्तम् । य: । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोम: । यस्य । इदम् । राध: । स: । जनास: । इन्द्र:॥३४.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१−(यः) परमेश्वरः (सुन्वन्तम्) तत्त्वं निष्पादयन्तम् (अवति) पालयति (यः) (पचन्तम्) परिपक्वं कुर्वन्तम् (यः) (शंसन्तम्) गुणान् वर्णयन्तम् (यः) (शशमानम्) शश प्लुतगतौ-शानच्। उद्योगं कुर्वन्तम्। (ऊती) रक्षया (यस्य) (ब्रह्म) वेदः (वर्धनम्) वृद्धिरूपम् (यस्य) (सोमः) मोक्षः (यस्य) (इदम्) (राधः) धनम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें