अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 17
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑। यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । सोम॑ऽकाम॒: । हरि॑ऽअश्व: । सू॒रि: । यस्मा॑त् । रेज॑न्ते । भुव॑नानि । विश्वा॑ ॥ य: । ज॒घान॑ । शम्ब॑रम् । य: । च॒ । शुष्ण॑म् । य: । ए॒क॒ऽवी॒र: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१७॥
स्वर रहित मन्त्र
यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा। यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । सोमऽकाम: । हरिऽअश्व: । सूरि: । यस्मात् । रेजन्ते । भुवनानि । विश्वा ॥ य: । जघान । शम्बरम् । य: । च । शुष्णम् । य: । एकऽवीर: । स: । जनास: । इन्द्र: ॥३४.१७॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(यः) परमेश्वरः (सोमकामः) ऐश्वर्यं कामयमानः (हर्यश्वः) हरयो मनुष्याः-निघ०२।३+अशू व्याप्तौ-क्वन्। मनुष्येषु व्यापकः (सूरिः) अ०२।११।४। षू प्रेरणे-क्रि-उ०४।६४। प्रेरको विद्वान् (यस्मात्) परमेश्वरात् (रेजन्ते) रेजत इति भयवेपनयोः-निरु०३।२१। कम्पन्ते (भुवनानि) लोकाः (विश्वा) सर्वाणि (यः) (जघान) हन हिंसागत्योः-लिट्। जगाम। व्याप्तवान् (शम्बरम्) म०१२। मेघम्-निघ०१।१०। (यः) (च) (शुष्णम्) तृषिशुषिरसिभ्यः कित्। उ०३।१२। शुष शोषे-नप्रत्ययः, कित्। रसशोषकं सूर्यम् (यः) (एकवीरः) अ०१९।१३।२। अद्वितीयशूरः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें