Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 17
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    षडा॑हुः शी॒तान्षडु॑ मा॒स उ॒ष्णानृ॒तुं नो॒ ब्रूत॑ यत॒मोऽति॑रिक्तः। स॒प्त सु॑प॒र्णाः क॒वयो॒ नि षे॑दुः स॒प्त च्छन्दां॒स्यनु॑ स॒प्त दी॒क्षाः ॥

    स्वर सहित पद पाठ

    षट् । आ॒हु॒: । शी॒तान् । षट् । ऊं॒ इति॑ । मा॒स: । उ॒ष्णान् । ऋ॒तुम् । न॒: । ब्रू॒त॒ । य॒त॒म: । अति॑ऽरिक्त: । स॒प्त । सु॒ऽप॒र्णा: । क॒वय॑: । नि । से॒दु॒: । स॒प्त । छन्दां॑सि । अनु॑ । स॒प्त । दी॒क्षा: ॥९.१७॥


    स्वर रहित मन्त्र

    षडाहुः शीतान्षडु मास उष्णानृतुं नो ब्रूत यतमोऽतिरिक्तः। सप्त सुपर्णाः कवयो नि षेदुः सप्त च्छन्दांस्यनु सप्त दीक्षाः ॥

    स्वर रहित पद पाठ

    षट् । आहु: । शीतान् । षट् । ऊं इति । मास: । उष्णान् । ऋतुम् । न: । ब्रूत । यतम: । अतिऽरिक्त: । सप्त । सुऽपर्णा: । कवय: । नि । सेदु: । सप्त । छन्दांसि । अनु । सप्त । दीक्षा: ॥९.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 17

    टिप्पणीः - १७−(षट्) (आहुः) कथयन्ति परमात्मनियमाः (शीतान्) अ० १।२५।४। शीतलान् (षट्) (उ) एव (मासः) माङ् माने-असुन्। मासान् (उष्णान्) शीतभिन्नान् (ऋतुम्) वसन्तादिकम् (नः) अस्मभ्यम् (ब्रूत) कथयत (यतमः) यः कश्चित् (अतिरिक्तः) भिन्नः (सप्त) शुक्लनीलपीतादिसप्तवर्णयुक्ताः (सुपर्णाः) अ० १।२४।१। सुपर्णाः सुपतना आदित्यरश्मयः-निरु० ३।१२। आदित्यरश्मयः (कवयः) “कवतेः” धातोः गत्यर्थस्य कविः, कवति गच्छत्यसौ नित्यम्-इति दुर्गाचार्यो निरुक्तटीकायाम्, १२।१३। कवीनां कवीयमानानामादित्यरश्मीनाम्, कवीनां कवीयमानानामिन्द्रियाणाम्-निरु० १४।१३। गतिशीलानीन्द्रियाणि। गतिशीला आदित्यरश्मयः (निषेदुः) निषीदन्ति (सप्त) (छन्दांसि) अ० ४।३४।१। छदि आच्छादने-असुन्। कः सप्त खानि... अ० १–०।२।६। इति श्रवणात्। आवरकाणि कर्णादीनि शीर्षण्यानि छिद्राणि (अनु) अनुसृत्य (सप्त) (दीक्षाः) अ० ८।५।१५। संस्कारान् ॥

    इस भाष्य को एडिट करें
    Top