अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 2
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - पङ्क्तिः
सूक्तम् - विराट् सूक्त
यो अक्र॑न्दयत्सलि॒लं म॑हि॒त्वा योनिं॑ कृ॒त्वा त्रि॒भुजं॒ शया॑नः। व॒त्सः का॑म॒दुघो॑ वि॒राजः॒ स गुहा॑ चक्रे त॒न्वः परा॒चैः ॥
स्वर सहित पद पाठय: । अक्र॑न्दयत् । स॒लि॒लम् । म॒हि॒ऽत्वा । योनि॑म् । कृ॒त्वा । त्रि॒ऽभुज॑म् । शया॑न: । व॒त्स: । का॒म॒ऽदुघ॑: । वि॒ऽराज॑: । स: । गुहा॑ । च॒क्रे॒ । त॒न्व᳡: । प॒रा॒चै: ॥९.२॥
स्वर रहित मन्त्र
यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः। वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥
स्वर रहित पद पाठय: । अक्रन्दयत् । सलिलम् । महिऽत्वा । योनिम् । कृत्वा । त्रिऽभुजम् । शयान: । वत्स: । कामऽदुघ: । विऽराज: । स: । गुहा । चक्रे । तन्व: । पराचै: ॥९.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) परमेश्वरः (अक्रन्दयत्) क्रदि आह्वाने रोदने च-लङ्। आहूतवान् (सलिलम्) म० १। व्यापनस्वभावम्। अगम्यदेशम् (महित्वा) महत्त्वेन (योनिम्) गृहम्-निघ० ३।४। (कृत्वा) रचयित्वा (त्रिभुजम्) उच्चनीचमध्यलोकत्रयरूपभुजयुक्तम् (शयानः) शयनं गतः (वत्सः) म० १ वदिता (कामदुघः) दुह प्रपूरणे-कप्। अ० ४।३४।८। अभीष्टपूरकः (विराजः) म० १। विविधैश्वर्याः। प्रकृतेः (सः) ईश्वरः (गुहा) गुहायाम्। हृदये (चक्रे) कृतवान् (तन्वः) विस्तृतीः (पराचैः) दूरदूरम् ॥
इस भाष्य को एडिट करें