अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 22
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - जगती
सूक्तम् - विराट् सूक्त
इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑। स॑मा॒नज॑न्मा॒ क्रतु॑रस्ति॒ वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन् ॥
स्वर सहित पद पाठइ॒त्थम् । श्रेय॑: । मन्य॑माना: । इ॒दम् । आ । अ॒ग॒म॒म् । यु॒ष्माक॑म् । स॒ख्ये । अ॒हम् । अ॒स्मि॒ । शेवा॑ । स॒मा॒नऽज॑न्मा । क्रतु॑: । अ॒स्ति॒ । व॒: । शि॒व: । स: । व॒: । सर्वा॑: । सम् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥९.२२॥
स्वर रहित मन्त्र
इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा। समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥
स्वर रहित पद पाठइत्थम् । श्रेय: । मन्यमाना: । इदम् । आ । अगमम् । युष्माकम् । सख्ये । अहम् । अस्मि । शेवा । समानऽजन्मा । क्रतु: । अस्ति । व: । शिव: । स: । व: । सर्वा: । सम् । चरति । प्रऽजानन् ॥९.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(इत्थम्) एवम् (श्रेयः) प्रशस्य-ईयसुन्। कल्याणम् (मन्यमाना) जानन्ती (इदम्) चराचरं जगत् (आ अगमम्) आगतवती (युष्माकम्) (सख्ये) मित्रभावे (अहम्) विराट् (अस्मि) (शेवा) इण्शीभ्यां वन्। उ० १।१५२। शीङ् शयने-वन्। शेव इति सुखनाम शिष्यतेर्वकारो नामकरणोऽन्तस्थान्तरोपलिङ्गी विभाषितगुणः शिवमित्यप्यस्य भवति-निरु० १०।१७। सुखदा (समानजन्मा) एकोत्पत्तियुक्तः कर्मफलैः सह (क्रतुः) प्रज्ञा-निघ० ३।९ (अस्ति) (वः) युष्माकम् (शिवः) शङ्करः (सः) क्रतुः (वः) युष्माकम् (सर्वाः) अखिला आशा दीर्घाकाङ्क्षाः (संचरति) (प्रजानम्) प्रबोधन् ॥
इस भाष्य को एडिट करें