Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 23
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - अनुष्टुप् सूक्तम् - विराट् सूक्त

    अ॒ष्टेन्द्र॑स्य॒ षड्य॒मस्य॒ ऋषी॑णां स॒प्त स॑प्त॒धा। अ॒पो म॑नु॒ष्या॒नोष॑धी॒स्ताँ उ॒ पञ्चानु॑ सेचिरे ॥

    स्वर सहित पद पाठ

    अ॒ष्ट । इन्द्र॑स्य । षट् । य॒मस्य॑ । ऋषी॑णाम् । स॒प्त । स॒प्त॒ऽधा । अ॒प: । म॒नु॒ष्या᳡न् । ओष॑धी: । तान् । ऊं॒ इति॑ । पञ्च॑ । अनु॑ । से॒चि॒रे॒ ॥९.२३॥


    स्वर रहित मन्त्र

    अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा। अपो मनुष्यानोषधीस्ताँ उ पञ्चानु सेचिरे ॥

    स्वर रहित पद पाठ

    अष्ट । इन्द्रस्य । षट् । यमस्य । ऋषीणाम् । सप्त । सप्तऽधा । अप: । मनुष्यान् । ओषधी: । तान् । ऊं इति । पञ्च । अनु । सेचिरे ॥९.२३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 23

    टिप्पणीः - २३−(अष्ट) पूर्वादिदिशा विदिशाश्च (इन्द्रस्य) जीवस्य (षट्) अ० ६।५५।२। वसन्ताद्यृतवः (यमस्य) यमो यच्छतीति सतः-निघ० १०।१९। नियमवतः (ऋषीणाम्) अ० ४।१९।९। त्वक्चक्षुरादीनाम् (सप्त) षडिन्द्रियाणि विद्या सप्तमी-निरु० १२।३७। (सप्तधा) सप्तप्रकारेण स्वशक्तिभिः सह (अपः) कर्म-निघ० २।१। (मनुष्यान्) (ओषधीः) अन्नादिपदार्थाः (तान्) (उ) एव (पञ्च) पृथिव्यादिभूतानि (अनु) अनुसृत्य (सेचिरे) षच समवाये सेके च। सिक्तवत्यः। वर्द्धितवत्यः ॥

    इस भाष्य को एडिट करें
    Top