Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 15
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    पञ्च॒ व्युष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑। पञ्च॒ दिशः॑ पञ्चद॒शेन॒ क्लृप्तास्ता एक॑मूर्ध्नीर॒भि लो॒कमेक॑म् ॥

    स्वर सहित पद पाठ

    पञ्च॑ । विऽउ॑ष्टी: । अनु॑ । पञ्च॑ । दोहा॑: । गाम् । पञ्च॑ऽनाम्नीम् । ऋ॒तव॑: । अनु॑ । पञ्च॑ । पञ्च॑ । दिश॑: । प॒ञ्च॒ऽद॒शेन॑ । क्लृ॒प्ता: । ता: । एक॑ऽमूर्ध्नी: । अ॒भि । लो॒कम् । एक॑म् ॥९.१५॥


    स्वर रहित मन्त्र

    पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च। पञ्च दिशः पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥

    स्वर रहित पद पाठ

    पञ्च । विऽउष्टी: । अनु । पञ्च । दोहा: । गाम् । पञ्चऽनाम्नीम् । ऋतव: । अनु । पञ्च । पञ्च । दिश: । पञ्चऽदशेन । क्लृप्ता: । ता: । एकऽमूर्ध्नी: । अभि । लोकम् । एकम् ॥९.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 15

    टिप्पणीः - १५−(पञ्च) पञ्चसंख्याकाः (व्युष्टीः) म० १०। वि+वस निवासे-क्तिन्। विविधनिवासशीलाः। तन्मात्राः (अनु) अनुसृत्य (पञ्च) पृथिव्यादिपञ्चभूतसम्बन्धिनः (दोहाः) पूरिताः पदार्थाः (गाम्) दिशाम् (पञ्चनाम्नीम्) पूर्वादिचतस्र उच्चस्था चैका, ताभिः सह नामयुक्ताम्। यद्वा पञ्चदिक्षु नमनशीलाम् (ऋतवः) वसन्तादयः (अनु) अनुलक्ष्य (पञ्च) अ० ८।२।२२। पञ्चर्तवः.... हेमन्तशिशिरयोः समासेन-निरु० ४।२७। (पञ्च) पूर्वादिचतस्र उच्चस्था चैका (दिशः) आशाः (पञ्चदशेन) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये। पा० २।२।२५। इति पञ्चाधिका दश यत्र स पञ्चदशः। बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। पञ्चदशन्-डच्। पञ्चप्राणेन्द्रियभूतानि यस्मिन् तेन जीवात्मना (क्लृप्ताः) समर्थिताः (एकमूर्ध्नीः) श्वन्नुक्षन्पूषन्। उ० १।१५९। मुर्वी बन्धने-कनिन्। एकः परमेश्वरो मूर्धरूपो यासां ता दिशाः (अभि) अभिलक्ष्य (लोकम्) देशम् (एकम्) ॥

    इस भाष्य को एडिट करें
    Top