Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 10
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    को वि॒राजो॑ मिथुन॒त्वं प्र वे॑द॒ क ऋ॒तून्क उ॒ कल्प॑मस्याः। क्रमा॒न्को अ॑स्याः कति॒धा विदु॑ग्धा॒न्को अ॑स्या॒ धाम॑ कति॒धा व्युष्टीः ॥

    स्वर सहित पद पाठ

    क: । वि॒ऽराज॑: । मि॒थु॒न॒ऽत्वम् । प्र । वे॒द॒ । क: । ऋ॒तून् । ऊं॒ इति॑ । कल्प॑म् । अ॒स्या॒: । क्रमा॑न् । क: । अ॒स्या॒: । क॒त‍ि॒ऽधा । विऽदु॑ग्धान् । क: । अ॒स्या॒: । धाम॑ । क॒ति॒ऽधा । विऽउ॑ष्टी: ॥९.१०॥


    स्वर रहित मन्त्र

    को विराजो मिथुनत्वं प्र वेद क ऋतून्क उ कल्पमस्याः। क्रमान्को अस्याः कतिधा विदुग्धान्को अस्या धाम कतिधा व्युष्टीः ॥

    स्वर रहित पद पाठ

    क: । विऽराज: । मिथुनऽत्वम् । प्र । वेद । क: । ऋतून् । ऊं इति । कल्पम् । अस्या: । क्रमान् । क: । अस्या: । कत‍िऽधा । विऽदुग्धान् । क: । अस्या: । धाम । कतिऽधा । विऽउष्टी: ॥९.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 10

    टिप्पणीः - १०−(कः) (विराजः) म० १। विविधैश्वर्याः (मिथुनत्वम्) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। मिथ वधे मेधायां च-उनन्, भावे त्व। बुद्धिमत्ताम् (प्र) प्रकर्षेण (वेद) जानाति (ऋतून्) वसन्तादितुल्यनियतकालान् (कः) (उ) एव (कल्पम्) कृपू सामर्थ्ये-अच् घञ् वा। सामर्थ्यम् (अस्याः) पूर्वोक्तायाः (क्रमान्) विधानानि (कः) (अस्याः) (कतिधा) कतिप्रकारेण। बहुप्रकारेण (विदुग्धान्) विविधपूरितान् (कः) (अस्याः) (धाम) गृहम् (कतिधा) (व्युष्टीः) वि+वस निवासे, आच्छादने प्रीतौ च, उष दाहे, वश कान्तौ वा-क्तिन्। समृद्धीः। प्रकाशान्। स्तुतीः ॥

    इस भाष्य को एडिट करें
    Top