Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 20
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्याप क॒थं त्रि॒ष्टुप्प॑ञ्चद॒शेन॑ कल्पते। त्र॑यस्त्रिं॒शेन॒ जग॑ती क॒थम॑नु॒ष्टुप्क॒थमे॑कविं॒शः ॥

    स्वर सहित पद पाठ

    क॒थम् । गा॒य॒त्री । त्रि॒ऽवृत॑म् । वि । आ॒प॒ । क॒थम् । त्रि॒ऽस्तुप् । प॒ञ्च॒ऽद॒शेन॑ । क॒ल्प॒ते॒ । त्र॒य॒:ऽत्रिं॒शेन॑ । जग॑ती। क॒थम् । अ॒नु॒ऽस्तुप् । क॒थम् । ए॒क॒ऽव‍िं॒श: ॥९.२०॥


    स्वर रहित मन्त्र

    कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते। त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥

    स्वर रहित पद पाठ

    कथम् । गायत्री । त्रिऽवृतम् । वि । आप । कथम् । त्रिऽस्तुप् । पञ्चऽदशेन । कल्पते । त्रय:ऽत्रिंशेन । जगती। कथम् । अनुऽस्तुप् । कथम् । एकऽव‍िंश: ॥९.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 20

    टिप्पणीः - २०−(कथम्) केन प्रकारेण (गायत्री) म० १४। गानयोग्या विराट् (त्रिवृतम्) वृतु वर्तने-क्विप्। त्रिभिः सत्त्वरजस्तमोगुणैः सह वर्तमानं जीवात्मानम् (व्याप) व्याप्तवती (कथम्) (त्रिष्टुप्) म० १४। कर्मोपासनाज्ञानैः पूजिता (मुक्तिः) (पञ्चदशेन) म० १५। पञ्चप्राणेन्द्रियभूतानि यत्र तेन जीवात्मना (कल्पते) समर्था भवति (त्रयस्त्रिंशेन) त्र्यधिका त्रिंशत् यस्मिन् स त्रयस्त्रिंशः। बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। बहुव्रीहौ डच्। वसुरुद्रादित्येन्द्रप्रजापतयस्त्रयस्त्रिंशद् देवा यस्मिन् तेन परमात्मना (जगती) म० १४। प्राप्तियोग्या। प्रकृतिः। सृष्टिः (कथम्) (अनुष्टुप्) म० १४। निरन्तरस्तुत्या वेदवाणी (कथम्) (एकविंशः) पूर्ववत् डच्। एकाधिका विंशतिर्यस्मिन् सः। पञ्चमहाभूतप्राणज्ञानेन्द्रियकर्मेन्द्रियैरन्तःकरणेन च सह वर्तमानो जीवात्मा ॥

    इस भाष्य को एडिट करें
    Top