Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 21
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    अ॒ष्ट जा॒ता भू॒ता प्र॑थम॒जर्तस्या॒ष्टेन्द्र॒र्त्विजो॒ दैव्या॒ ये। अ॒ष्टयो॑नि॒रदि॑तिर॒ष्टपु॑त्राष्ट॒मीं रात्रि॑म॒भि ह॒व्यमे॑ति ॥

    स्वर सहित पद पाठ

    अ॒ष्ट । जा॒ता । भू॒ता । प्र॒थ॒म॒ऽजा । ऋ॒तस्य॑ । अ॒ष्ट । इ॒न्द्र॒ । ऋ॒त्विज॑: । दैव्या॑: । ये । अ॒ष्टऽयो॑नि: । अदि॑ति: । अ॒ष्टऽपु॑त्रा: । अ॒ष्ट॒मीम् । रात्रि॑म् । अ॒भि । ह॒व्यम् । ए॒ति॒ ॥९.२१॥


    स्वर रहित मन्त्र

    अष्ट जाता भूता प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये। अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति ॥

    स्वर रहित पद पाठ

    अष्ट । जाता । भूता । प्रथमऽजा । ऋतस्य । अष्ट । इन्द्र । ऋत्विज: । दैव्या: । ये । अष्टऽयोनि: । अदिति: । अष्टऽपुत्रा: । अष्टमीम् । रात्रिम् । अभि । हव्यम् । एति ॥९.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 21

    टिप्पणीः - २१−(अष्ट) महत्तत्त्वाहंकारपञ्चभूतमनोभिः संबद्धानि (जाता) उत्पन्नानि (भूता) भूतानि। जीवाः (प्रथमजा) प्रथमात् कारणाज्जातानि (ऋतस्य) सत्यनियमस्य (अष्ट) दिग्भिश्चावान्तरदिग्भिश्च सह स्थिताः (इन्द्र) हे जीव (ऋत्विजः) अ० ६।२।१। ये ऋतौ ऋतौ यजन्ति ददति ते (दैव्याः) दिव्यगुणाः पदार्थाः (अष्टयोनिः) अष्ट+यु मिश्रणामिश्रणयोः-नि। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि-योगदर्शने ˜२।२९। एतैः सह संयुक्ता (अष्टपुत्रा) अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ईशित्वं च वशित्वं च तथा कामावसायिता। इत ऐश्वर्याणि पुत्रसदृशानि यस्याः सा (अष्टमीम्) अशू व्याप्तौ-क्त। अष्टं व्याप्तं जगत् माति, मा-क। व्याप्तस्य जगतः परिमात्रीम् (रात्रिम्) अ० १।१६।१। रात्रिः कस्मात् प्ररमयति भूतानि नक्तंचारीण्युपरमयतीतराणि ध्रुवीकरोति रातेर्वा स्याद् दानकर्मणः प्रदीयन्तेऽस्यामवश्यायाः-निरु० २।१८। विश्रामदात्रीं मुक्तिम् (अभि) अभीत्य (हव्यम्) हु आदाने-यत्। ग्राह्यं सुखम् (एति) अन्तर्गतो णिच्। आययति। गमयति ॥

    इस भाष्य को एडिट करें
    Top