Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 25
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - अनुष्टुप् सूक्तम् - विराट् सूक्त

    को नु गौः क ए॑कऋ॒षिः किमु॒ धाम॒ का आ॒शिषः॑। य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु सः ॥

    स्वर सहित पद पाठ

    क: । नु । गौ: । क: । ए॒क॒ऽऋ॒षि: । किम् । ऊं॒ इति॑ । धाम॑ । का: । आ॒ऽशिष॑: । य॒क्षम् । पृ॒थि॒व्याम् । ए॒क॒ऽवृत् । ए॒क॒ऽऋ॒तु: । क॒त॒म: । नु । स: ॥९.२५॥


    स्वर रहित मन्त्र

    को नु गौः क एकऋषिः किमु धाम का आशिषः। यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥

    स्वर रहित पद पाठ

    क: । नु । गौ: । क: । एकऽऋषि: । किम् । ऊं इति । धाम । का: । आऽशिष: । यक्षम् । पृथिव्याम् । एकऽवृत् । एकऽऋतु: । कतम: । नु । स: ॥९.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 25

    टिप्पणीः - २५−(कः) (नु) प्रश्ने (गौः) गमेर्डोः। उ० २।६७। णिजर्थाद् गमेर्डो। गौरादित्यो भवति, गमयति रसान्, गच्छत्यन्तरिक्षे-निरु० २।१४। लोकानां गमयिता (कः) (एकऋषिः) अ० २।६।१। ऋषिः दर्शनात्-निरु० २।१। अद्वितीयसन्मार्गदर्शकः (किम्) (उ) (धाम) ज्योतिःस्वरूपम् (काः) (आशिषः) अ० २।२५।७। हितप्रार्थनाः (यक्षम्) म० ८। यज पूजायाम्-स। पूजनीयं ब्रह्म (पृथिव्याम्) भूमौ (एकवृत्) अद्वितीयवर्तमानम् (एकर्तुः) एकस्मिन् ऋतौ सदा वर्तमानः कालेनानवच्छेदात् (कतमः) सर्वेषां कः (नु) (सः) ॥

    इस भाष्य को एडिट करें
    Top