अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
वै॑श्वान॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द्रोद॑सी विबबा॒धे अ॒ग्निः। ततः॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमह्नः॑ ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रस्य॑ । प्र॒ति॒ऽमा । उ॒परि॑ । द्यौ: । याव॑त् । रो॑दसी॒ इति॑ । वि॒ऽब॒बा॒धे । अ॒ग्नि: । तत॑: । ष॒ष्ठात् । आ । अ॒मुत॑: । य॒न्ति॒ । स्तोमा॑: । उत् । इ॒त: । य॒न्ति॒ । अ॒भि । ष॒ष्ठम् । अह्न॑: ॥९.६॥
स्वर रहित मन्त्र
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः। ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥
स्वर रहित पद पाठवैश्वानरस्य । प्रतिऽमा । उपरि । द्यौ: । यावत् । रोदसी इति । विऽबबाधे । अग्नि: । तत: । षष्ठात् । आ । अमुत: । यन्ति । स्तोमा: । उत् । इत: । यन्ति । अभि । षष्ठम् । अह्न: ॥९.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(वैश्वानरस्य) अ० १।१०।१४। सर्वनरहितस्य (प्रतिमा) अ० ३।१०।३। आकृतिवत् (उपरि) सर्वोपरि विराजमानस्य (द्यौः) आकाशः (यावत्) यत्परिमाणम् (रोदसी) अ० ४।१।४। द्यावापृथिव्यौ (विबबाधे) पृथग् रुरुधे (अग्निः) सर्वव्यापकः परमेश्वरः (ततः) तस्मात् कारणात् (षष्ठात्) म० ४। पञ्चभूतापेक्षया षष्ठात्परमेश्वरात् (अमुतः) पूर्वोक्तात् (आयन्ति) आगच्छन्ति (स्तोमाः) स्तुत्यगुणाः (उद्यन्ति) उद्गच्छन्ति (इतः) अस्माल्लोकात् (अभि) प्रति (षष्ठम्) ब्रह्म (अह्नः) दिनस्य। प्रकाशस्य ॥
इस भाष्य को एडिट करें