अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 5
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - अनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॑ह॒ती परि॒ मात्रा॑या मा॒तुर्मात्राधि॒ निर्मि॑ता। मा॒या ह॑ जज्ञे मा॒याया॑ मा॒याया॒ मात॑ली॒ परि॑ ॥
स्वर सहित पद पाठबृ॒ह॒ती । परि॑ । मात्रा॑या: । मा॒तु: । मात्रा॑ । अधि॑ । नि:ऽमि॑ता । मा॒या । ह॒ । ज॒ज्ञे॒ । मा॒याया॑: । मा॒याया॑: । मात॑ली । परि॑ ॥९.५॥
स्वर रहित मन्त्र
बृहती परि मात्राया मातुर्मात्राधि निर्मिता। माया ह जज्ञे मायाया मायाया मातली परि ॥
स्वर रहित पद पाठबृहती । परि । मात्राया: । मातु: । मात्रा । अधि । नि:ऽमिता । माया । ह । जज्ञे । मायाया: । मायाया: । मातली । परि ॥९.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(बृहती) स्थूला सृष्टिः (परि) सर्वतः (मात्रायाः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। माङ् माने−त्रन्। मीयन्तेऽनया विषयाः। तस्याः तन्मात्रायाः सकाशात् (मातुः) निर्मातुः परमेश्वरात् (मात्रा) तन्मात्रा (अधि) एव (निर्मिता) रचिता (माया) माछाशसिभ्यो यः। उ० ४।१०८। मा शब्दे माने च-य, टाप्। प्रज्ञा-निघ० ३।९। (ह) एव (जज्ञे) प्रादुर्बभूव (मायायाः) बुद्धिरूपात् परमेश्वरात् (मायायाः) (मातली) मतं ज्ञानं लाति गृह्णातीति मतल इन्द्रो जीवः। मत+ला-क। मतलस्यायं पुमान्। अत इञ्। पा० ४।१।९५। मतल-इञ्। सुपां सुलुक्पूर्वसवर्णा०। पा० ७।१।३९। विभक्तेः पूर्वसवर्णदीर्घः। मातलिः। इन्द्रसारथिः। मनः यथा यजु० ३४।६। (परि) सर्वतः ॥
इस भाष्य को एडिट करें