Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 18
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    स॒प्त होमाः॑ स॒मिधो॑ ह स॒प्त मधू॑नि स॒प्तर्तवो॑ ह स॒प्त। स॒प्ताज्या॑नि॒ परि॑ भू॒तमा॑य॒न्ताः स॑प्तगृ॒ध्रा इति॑ शुश्रुमा व॒यम् ॥

    स्वर सहित पद पाठ

    स॒प्त । होमा॑: । स॒म्ऽइध॑: । ह॒ । स॒प्त । मधू॑नि । स॒प्त । ऋ॒तव॑: । ह॒ । स॒प्त । स॒प्त । आज्या॑नि । परि॑ । भू॒तम् । आ॒य॒न् । ता: । स॒प्त॒ऽगृ॒ध्रा: । इति॑ । शु॒श्रु॒म॒ । व॒यम् ॥९.१८॥


    स्वर रहित मन्त्र

    सप्त होमाः समिधो ह सप्त मधूनि सप्तर्तवो ह सप्त। सप्ताज्यानि परि भूतमायन्ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥

    स्वर रहित पद पाठ

    सप्त । होमा: । सम्ऽइध: । ह । सप्त । मधूनि । सप्त । ऋतव: । ह । सप्त । सप्त । आज्यानि । परि । भूतम् । आयन् । ता: । सप्तऽगृध्रा: । इति । शुश्रुम । वयम् ॥९.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 18

    टिप्पणीः - १८−(सप्त) (होमाः) हु दानादानादनेषु-मन्। विषयाणां ग्राहिकास्त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (समिधः) ज्ञानादिप्रकाशिकाः समिद्रूपा इन्द्रियशक्तयः (ह) एव (सप्त) (मधूनि) ज्ञाने-उ। ज्ञानानि। इन्द्रियविषयाः सप्त (ऋतवः) अर्त्तेश्च तुः। उ० १।७२। ऋ गतौ-तु। गतयः प्रवृत्तयः (सप्त) (आज्यानि) अ० ५।८।१। विषयाणां व्यक्तीकराणि साधनानि (परि) परीत्य। प्राप्य (भूतम्) जीवम् (आयन्) प्राप्नुवन् (ताः) प्रसिद्धाः (सप्तगृध्राः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। गृधु अभिकाङ्क्षायाम्-क्रन्। गृध्राणीन्द्रियाणि गृध्यतेर्ज्ञानकर्मणः-निरु० १४।१३। सप्त गृध्राणीन्द्रियाणि यासां ता वासनाः (इति) एवम् (शुश्रुम) श्रुतवन्तः (वयम्) ज्ञानिनः ॥

    इस भाष्य को एडिट करें
    Top