Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 7
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    षट्त्वा॑ पृच्छाम॒ ऋष॑यः कश्यपे॒मे त्वं हि यु॒क्तं यु॑यु॒क्षे योग्यं॑ च। वि॒राज॑माहु॒र्ब्रह्म॑णः पि॒तरं॒ तां नो॒ वि धे॑हि यति॒धा सखि॑भ्यः ॥

    स्वर सहित पद पाठ

    षट् । त्वा॒ । पृ॒च्छा॒म॒ । ऋष॑य: । क॒श्य॒प॒ । इ॒मे । त्वम् । हि । यु॒क्तम् । यु॒यु॒क्षे । योग्य॑म् । च॒ । वि॒ऽराज॑म् । आ॒हु॒: । ब्रह्म॑ण: । पि॒तर॑म् । ताम् । न॒: । वि । धे॒हि॒ । य॒ति॒ऽधा । सखि॑ऽभ्य: ॥९.७॥


    स्वर रहित मन्त्र

    षट्त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च। विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥

    स्वर रहित पद पाठ

    षट् । त्वा । पृच्छाम । ऋषय: । कश्यप । इमे । त्वम् । हि । युक्तम् । युयुक्षे । योग्यम् । च । विऽराजम् । आहु: । ब्रह्मण: । पितरम् । ताम् । न: । वि । धेहि । यतिऽधा । सखिऽभ्य: ॥९.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 7

    टिप्पणीः - ७−(षट्) षट्संख्याकाः (त्वा) त्वाम् (पृच्छाम)) प्रश्नेन निश्चिनवाम (ऋषयः) अ० ४।११।९। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी-निरु० १२।३७। इति वचनात्, त्वक्चक्षुःश्रवणरसनाघ्राणमनांसीन्द्रियाणि (कश्यप) अ० १।१४।४। पश्यक विद्वन् (त्वम्) (हि) अवश्यम् (युक्तम्) समाहितम् (युयुक्षे) युज समाधौ-लिट्। त्वं समाहितवानसि (योग्यम्) ध्यातव्यम् (च) (विराजम्) म० १। महेश्वरीं शक्तिम् (आहुः) कथयन्ति (ब्रह्मणः) परमेश्वरस्य (पितरम्) अल्लोपः। अपितरम्। निश्चयेन (ताम्) विराजम् (नः) अस्मभ्यम् (वि धेहि) विधानेन कथय (यतिधा) यत्प्रकारेण (सखिभ्यः) मित्रेभ्यः ॥

    इस भाष्य को एडिट करें
    Top