अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 24
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
केव॒लीन्द्रा॑य दुदु॒हे हि गृ॒ष्टिर्वशं॑ पी॒यूषं॑ प्रथ॒मं दुहा॑ना। अथा॑तर्पयच्च॒तुर॑श्चतु॒र्धा दे॒वान्म॑नु॒ष्याँ॒ असु॑रानु॒त ऋषी॑न् ॥
स्वर सहित पद पाठकेव॑ली । इन्द्रा॑य । दु॒दु॒हे । हि । गृ॒ष्टि: । वश॑म् । पी॒यूष॑म् । प्र॒थ॒मम् । दुहा॑ना । अथ॑ । अ॒त॒र्प॒य॒त् । च॒तुर॑: । च॒तु॒:ऽधा: । दे॒वान् । म॒नु॒ष्या᳡न् । असु॑रान् । उ॒त । ऋषी॑न् ॥९.२४॥
स्वर रहित मन्त्र
केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना। अथातर्पयच्चतुरश्चतुर्धा देवान्मनुष्याँ असुरानुत ऋषीन् ॥
स्वर रहित पद पाठकेवली । इन्द्राय । दुदुहे । हि । गृष्टि: । वशम् । पीयूषम् । प्रथमम् । दुहाना । अथ । अतर्पयत् । चतुर: । चतु:ऽधा: । देवान् । मनुष्यान् । असुरान् । उत । ऋषीन् ॥९.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(केवली) एकैव (इन्द्राय) जीवहिताय (दुदुहे) पूरितवती (हि) एव (गृष्टिः) अ० २।१३।३। ग्रह-क्तिच्, पृषोदरादिरूपम्। ग्राह्या विराट् (वशम्) प्रभुत्वम् (पीयूषम्) अ० ८।३।१७। अमृतम्। अन्नदुग्धादिकम् (प्रथमम्) अग्रे (दुहाना) प्रपूरयन्ती (अथ) अनन्तरम् (अतर्पयत्) तर्पितवती (चतुरः) (चतुर्धा) चतुष्प्रकारेण धर्मार्थकाममोक्षद्वारा (देवान्) विजिगीषून् (मनुष्यान्) मननशीलान् (असुरान्) अ० १।१०।१। प्रज्ञावतः-निरु० १०।३४। (उत) अपि (ऋषीन्) अ० २।६।१। साक्षात्कृतधर्माणः पुरुषान् ॥
इस भाष्य को एडिट करें