अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 39
तत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। रा॑जय॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। अ॒न्तरि॑क्षेण॒ व्यच॑सा। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । व्यच॑सा । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ रा॒ज॒ऽयक्ष्म॒: । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ अ॒न्तरि॑क्षेण । व्यच॑सा ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.८॥
स्वर रहित मन्त्र
ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। अन्तरिक्षेण व्यचसा। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । व्यचसा । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ राजऽयक्ष्म: । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अन्तरिक्षेण । व्यचसा ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 39
विषय - अन्तरिक्षेण व्यचसा
पदार्थ -
१. (तत: च) = और तब (येन च व्यचसा) = जिस विस्तार [Expance, vastness] के हेतु से निश्चयपूर्वक (एतम्) = इस ब्रह्मौदन को (पूर्वे ऋषयः) = पालन व पूरण करनेवाले तत्वद्रष्टाओं ने (प्राश्नन्) = खाया, (अन्येन) = उससे भिन्न विस्तार के दृष्टिकोण से (पनं प्राशी:) = इसे तू खाता है, तो वह ज्ञानी (एनम् आह) = इससे कहता है कि (राजयक्ष्मः त्वा हनिष्यति इति) = राजयक्ष्मा तुझे नष्ट कर डालेगा। (अहम्) = मैंने तो (तं वै) = उस ब्रह्मौदन को निश्चय से (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल यहाँ-नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला, न सुदूर धुलोक के पदार्थों का ज्ञान देनेवाला और न ही केवल सम्मुखस्थ अन्तरिक्ष के पदार्थों का ज्ञान देनेवाला जाना है। मैंने (एनम्) = इसे (तेन अन्तरिक्षेण व्यचसा) = उस हृदयान्तरिक्ष के विस्तार के हेतु से (प्राशिषम्) = खाया है. (तेन एनं अजीगमम्) = उसी के हेतु से प्राप्त किया है। २. (एषः वा ओदनः०) = [शेष पूर्ववत्]
भावार्थ -
हम वेदज्ञान को हृदयान्तरिक्ष के विस्तार के हेतु से प्राप्त करें। यदि हमारा उद्देश्य केवल ऐश्वर्य व विलास के विस्तार का बना, तो हम ऐश्वर्य-विस्तार के साथ विलास-पंक में डूबकर राजयक्ष्मा आदि रोगों के शिकार हो जाएंगे।
इस भाष्य को एडिट करें