अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 44
तत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। मि॒त्राव॑रुणयोरू॒रुभ्या॑म्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑।
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । ऊ॒रुऽभ्या॑म् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ऊ॒रू॑ इति॑ । ते॒ । म॒रि॒ष्य॒त॒: । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ मि॒त्रावरु॑णयो: । ऊ॒रुऽभ्या॑म् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१३॥
स्वर रहित मन्त्र
ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ऊरू ते मरिष्यत इत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। मित्रावरुणयोरूरुभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद।
स्वर रहित पद पाठतत: । च । एनम् । अन्याभ्याम् । ऊरुऽभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ऊरू इति । ते । मरिष्यत: । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अवाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ मित्रावरुणयो: । ऊरुऽभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 44
विषय - मित्रावरुणयो: ऊरुभ्याम्
पदार्थ -
१. ['अर्पते अनेन' 'अर्तेरूरच्च' सूत्र से कु प्रत्यय व ऋको ऊर आदेश]'ऊरु' गति के साधनभूत होते हैं। वेद के अनुसार हमारी सब गति 'मित्र व वरुण' की होनी चाहिए, अर्थात् हमारे सब कार्य स्नेह व निषता के साथ होने चाहिएँ। (तत: च) = और तब (याभ्यां च ऊरुभ्याम्) = निश्चय से जिन ऊरु-प्रदेशों से-जङ्गाओं [Thighs] से (पूर्वे ऋषय:) = पालक तत्वद्रष्टाओं ने (एतं प्राश्नन्) = इस ब्रह्मौदन को खाया, (अन्याभ्याम्) = उनसे भिन्न ऊरुओं से (एनं प्राशी:) = इस ओदन को तूने खाया तो (ते ऊरू मरिष्यतः इति) = तेरे ये ऊरूप्रदेश विकृत हो जाएँगे-मर जाएँगे। ऐसा वह ब्रह्मज्ञानी (एनं आह) = इसे कहता है (अहम्) = मैंने तो (वै) = निश्चय से (तम्) = उस ब्रह्मौदन को (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल नीचे पृथिवी के पदार्थों का, न ही सुदूर धुलोक के पदार्थों का और न ही केवल सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला जाना है। मैंने तो (एनम्) = इस ब्रह्मौदन को (ताभ्यां मित्रावरुणयोः ऊरुभ्याम्) = उन मित्र और वरुण के ऊरु-प्रदेशों के हेतु से (प्राशिषम्) = खाया है, (ताभ्याम्) = उनके हेतु से ही (एनं अजीगमम्) = इसे प्राप्त किया है। २. (एषः वा ओदन:०)[शेष पूर्ववत्]
भावार्थ -
हम वेदज्ञान द्वारा प्रेरणा लेकर सदा स्नेह व निझैषता से गतिवाले बनें और इसप्रकार अपने ऊरु-प्रदेशों को पूर्ण स्वस्थ बनाएँ।
इस भाष्य को एडिट करें