Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 48
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्याभ्यां॒ हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब्रा॑ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। ऋ॒तस्य॒ हस्ता॑भ्याम् । ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । हस्ता॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब्रा॒ह्म॒णम् । ह॒नि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ ऋ॒तस्य॑ । हस्ता॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒दन: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१७॥


    स्वर रहित मन्त्र

    ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ब्राह्मणं हनिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ऋतस्य हस्ताभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्याभ्याम् । हस्ताभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ब्राह्मणम् । हनिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ऋतस्य । हस्ताभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 48

    पदार्थ -

    १. प्रभु ने हाथ दिये हैं। इनसे हमें सदा उत्तम कर्मों [ऋत-right] को ही करना है। ततः च-और तब याभ्यां च हस्ताभ्याम्-जिन हाथों से एतम्-इस ब्रह्मौदन को (पूर्वे ऋषयः) = पालक तत्त्वद्रष्टाओं ने (प्राश्नन्) = खाया है, (अन्याभ्याम्) = उनसे भिन्न हाथों से (एनं प्राशी:) = इसे खाता है, तो (एनम् आह) = इसे तत्वद्ष्टा कहता है कि ब्(राह्मणं हनिष्यसि इति) = ब्रह्मज्ञान को तू नष्ट करनेवाला होगा। ऋत के पालन से ब्रह्मज्ञान की वृद्धि होती है और ऋत का विनाश ब्रह्मज्ञान के विनाश का हेतु बनता है। (अहम्) = मैं (वै तम्) = निश्चय से उस ब्रह्मौदन को (न अर्वाञ्चम्) = न केवल नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला मानता हूँ (न पराञ्चम्) = न सुदूर झुलोक के पदार्थों का ज्ञान देनेवाला और न ही (न प्रत्यञ्चम्) = सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला। मैं तो ताभ्याम् ऋतस्य हस्ताभ्याम्-उन ऋत के हाथों से एनं (प्राशिषम्) = इस ब्रह्मौदन को खाता है, (ताभ्यां एनम् अजीगमम्) = ऋत के हाथों से ही इसे प्राप्त करता हूँ। २. (एषः वा ओदनः०) = [शेष पूर्ववत्]

    भावार्थ -

    हम वेद से प्रेरणा प्राप्त करके सदा हाथों से ऋत [ठीक कर्मों] को ही करनेवाले बनें। ऋत का पालन हमारे ब्रह्मज्ञान की वृद्धि का कारण बनेगा।

    इस भाष्य को एडिट करें
    Top