अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 49
तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॑प्रतिष्ठा॒नोनायत॒नो म॑रिष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॒त्ये प्र॑ति॒ष्ठाय॑। तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्यया॑ । प्र॒ति॒ऽस्थया॑ । प्र॒ऽआशी॑: । यया॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ अ॒प्र॒ति॒ऽस्था॒न: । अ॒ना॒य॒त॒न: । म॒रि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्चम् ॥ स॒त्ये । प्र॒ति॒ऽस्थाय॑ ॥ तया॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तया॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१८॥
स्वर रहित मन्त्र
ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्। अप्रतिष्ठानोनायतनो मरिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सत्ये प्रतिष्ठाय। तयैनं प्राशिषं तयैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्यया । प्रतिऽस्थया । प्रऽआशी: । यया । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अप्रतिऽस्थान: । अनायतन: । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्ये । प्रतिऽस्थाय ॥ तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 49
विषय - सत्ये प्रतिष्ठाय
पदार्थ -
१. इस पृथिवी पर गति करते हुए हम इस पृथिवी को प्रतिष्ठा [आधार] समझते हैं, परन्तु वास्तव में प्रतिष्ठा तो 'सत्य' है-सत्यस्वरूप प्रभु ही अन्तिम आधार है। (तत: च) = और तब (यया च प्रतिष्ठया) = जिस सत्यरूप आधार के विचार से (पूर्वे ऋषय:) = पालक तत्वद्रष्टाओं ने (एतं प्राश्नन्) = इस ब्रह्मौदन को खाया है, (अन्यया) = उससे भिन्न अन्न लौकिक आधारों के द्वारा (प्राशी:) = तू ब्रह्मौदन को खाता है, तो (एनम् आह) = तत्त्वद्रष्टा इसे कहता है कि (अप्रतिष्ठान:) = आधारशून्य हुआ-हुआ अनायतन:-बिना घर-बारवाला मरिष्यसि इति-तू मर जाएगा। अहम्-मैं तो तं बै उस ब्रह्मौदन को निश्चय से न अर्वाञ्चम्-न केवल नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला, न पराञ्चम्-न सुदूर धुलोक के पदार्थों का ज्ञान देनेवाला और न प्रत्यञ्चम्-न ही सम्मुखस्थ अन्तरिक्ष लोक के पदार्थों का ही ज्ञान देनेवाला जानता हूँ। सत्ये प्रतिष्ठाय-सत्य में ही प्रतिष्ठित होकर तया-उस सत्य में प्रतिष्ठा के द्वारा ही एनं प्राशिषम्-इस ब्रह्मौदन को खाया है, तया एनम् अजीगमम्-उस सत्यप्रतिष्ठा के द्वारा ही इसे प्राप्त किया है। २. (एषः वा ओदनः०) = [शेष पूर्ववत्]
भावार्थ -
हम वेद से प्रेरणा प्राप्त करके सत्य को ही अपना आधार समझें। अन्य आधार धोखा दे जाते हैं। सत्यस्वरूप प्रभु ही हमारे सच्चे आधार हैं।
इस भाष्य को एडिट करें