अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - परोष्णिक्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । सर्वे॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१३॥
स्वर रहित मन्त्र
यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । सर्वे । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 13
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(यस्य अङ्गे) जिसके अङ्ग में (सर्वे) सब के सब (त्रयः त्रिंशत्) तेतींस (देवाः) देवगण (सम्-आहिताः) भली प्रकार स्थित हैं (तं स्कम्भं ब्रूहि कतमः स्विद् एव सः) उस स्कम्भ का उपदेश कर वह कौनसा है ?
कतमे ते ते त्रयस्त्रिंशदित्यष्टौ वसवः, एकादश रुद्राः, द्वादशादित्यारत एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति॥ २॥ कतमे वसव इति, अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौःश्च चन्द्रमाश्च नक्षत्राणि चैते वसवः। एतेषु हीदं सर्वं हितमिति तस्माद्वसवः इति॥ ३॥ कतमे रुद्रा इति। दशेमे पुरुषे प्राणा आत्मा एकादशस्ते यदाऽस्माच्छरीरान्मर्त्या दुत्क्रामन्ति अथ रोदयन्ति। तद् यद् रोदयन्ति तस्माद् रुद्राः इति॥ ४॥ कतम आदित्या इति। द्वादश वै मासा संवत्सरस्यैत आदित्याः। एते हि इंदं सर्वमाददाना यन्ति। यदिदं सर्वमाददाना यन्ति तस्मात् आदित्या इति (बृहदा० उप० ३। ९। २-५) बृहदारण्यक उपनिषत् में अग्नि, पृथिवी, वायु, अन्तरिक्ष, आदित्य, द्यौः, चन्द्रमा और नक्षत्र ये आठ ‘वसु’ हैं, पुरुष शरीर में दश प्राण और आत्मा ये ग्यारह ‘रुद्र’, वर्ष के १२ मास आदित्य और अशनि और पशु या और यज्ञ, स्तनयित्नु या इन्द्र और प्रजापति ये ३३ देवता गिनाये हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें