अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 34
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । वात॑: । प्रा॒णा॒पा॒नौ । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । दिश॑: । य: । च॒क्रे । प्र॒ऽज्ञानी॑: । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३४॥
स्वर रहित मन्त्र
यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन्। दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । वात: । प्राणापानौ । चक्षु: । अङ्गिरस: । अभवन् । दिश: । य: । चक्रे । प्रऽज्ञानी: । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३४॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 34
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(वातः) वात (यस्य प्राणापानौ) जिसके प्राण और अपान के समान हैं। और (अङ्गिरसः) ज्ञानी विद्वान् या तेजस्वी पदार्थ, जिसके (चक्षुः अभवत्) चक्षु के समान हैं। और (यः) जो (दिशः) दिशाओं को (प्रज्ञानीः) अपनी उत्कृष्ट ज्ञापक, पताकाओं के समान (चक्रे) बनाये हुए है (तस्मै ज्येष्ठाय ब्रह्मणे नमः) उस परम, सर्वश्रेष्ठ ब्रह्म के लिये नमस्कार है।
इस रूपक को छान्दोग्य [ अ० ५ खं० १०-१८] उपनिषद् में स्पष्ट किया है—तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुविश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादा बुर एव वेदिर्लोमानि बर्हिर्ह्रदयं गार्हपत्यो मनोऽन्वाहार्यपचन, आस्य माहवनीयः। इत्यादि।
टिप्पणी -
(तृ०) ‘दिवं यश्चक्रे मूर्धानं’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें