अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 12
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता। यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्मि॑न् । भूमि॑: । अ॒न्तरि॑क्षम् । द्यौ: । यस्मि॑न् । अधि॑ । आऽहि॑ता । यत्र॑ । अ॒ग्नि: । च॒न्द्रमा॑: । सूर्य॑: । वात॑: । तिष्ठ॑न्ति । आर्पि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१२॥
स्वर रहित मन्त्र
यस्मिन्भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता। यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्मिन् । भूमि: । अन्तरिक्षम् । द्यौ: । यस्मिन् । अधि । आऽहिता । यत्र । अग्नि: । चन्द्रमा: । सूर्य: । वात: । तिष्ठन्ति । आर्पिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 12
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(यस्मिन्) जिसमें (भूमिः) भूमि (अन्तरिक्षं) अन्तरिक्ष और (द्यौः) द्यौ लोक (अधि आहिता) स्थित हैं। (यत्र) जिसमें (अग्निः चन्द्रमाः) अग्नि, चन्द्रमा (सूर्यः) सूर्य और (वातः) वायु (आ अर्पिताः) सब प्रकार से आश्रित होकर (तिष्ठन्ति) खड़े हैं (तं स्कम्भम्) उस स्कम्भ का (ब्रूहि) उपदेश कर। (कतमः स्वित् एव सः) वह भला कौनसा है ?
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें