अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 40
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑। सर्वा॑णि॒ तस्मि॒ञ्ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥
स्वर सहित पद पाठअप॑ । तस्य॑ । ह॒तम् । तम॑: । वि॒ऽआवृ॑त: । स: । पा॒प्मना॑ । सर्वा॑णि । तस्मि॑न् । ज्योति॑षि । यानि॑ । त्रीणि॑ । प्र॒जाऽप॑तौ ॥७.४०॥
स्वर रहित मन्त्र
अप तस्य हतं तमो व्यावृत्तः स पाप्मना। सर्वाणि तस्मिञ्ज्योतींषि यानि त्रीणि प्रजापतौ ॥
स्वर रहित पद पाठअप । तस्य । हतम् । तम: । विऽआवृत: । स: । पाप्मना । सर्वाणि । तस्मिन् । ज्योतिषि । यानि । त्रीणि । प्रजाऽपतौ ॥७.४०॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 40
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(तस्य) उस परमेश्वर की शक्ति से (तमः) समस्त अन्धकार (अप-हतम्) विनष्ट हो जाता है। (सः) वह समस्त (पाप्मना) पापों से (वि-आवृत्तः) पृथक् रहता है। (यानि) जो (त्रीणि) तीनों (ज्योतींषि) ज्योतियां हैं (सर्वाणि) वे सब भी (तस्मिन्) उसी (प्रजापतौ) प्रजापति में ही विराजमान हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें