Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 25
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥

    स्वर सहित पद पाठ

    बृ॒हन्त॑: । नाम॑ । ते । दे॒वा: । ये । अस॑त: । परि॑ । ज॒ज्ञि॒रे । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । अस॑त् । आ॒हु॒: । प॒र: । जना॑: ॥७.२५॥


    स्वर रहित मन्त्र

    बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे। एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥

    स्वर रहित पद पाठ

    बृहन्त: । नाम । ते । देवा: । ये । असत: । परि । जज्ञिरे । एकम् । तत् । अङ्गम् । स्कम्भस्य । असत् । आहु: । पर: । जना: ॥७.२५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 25

    भावार्थ -
    (ते) वे (देवाः) देव (बृहन्तः) ‘बृहत्’ नामक हैं (ये) जो (असतः) ‘असत्’ से (परि जज्ञिरे) उत्पन्न होते हैं। (स्कम्भस्य) स्कम्भ का (तत्) वह (एकम् अङ्गम्) एक अङ्ग है जिसको (जनाः) लोग (परः) इस व्याकृत जगत् से परे (असत्) ‘असत्’ रूप से (आहुः) बतलाते हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top