अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 1
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - विराड्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठकस्मि॑न् । अङ्गे॑ । तप॑: । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहि॑तम् । क्व᳡ । व्र॒तम् । क्व᳡ । श्र॒ध्दा । अ॒स्य । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । स॒त्यम् । अ॒स्य॒ । प्रति॑ऽस्थितम् ॥७.१॥
स्वर रहित मन्त्र
कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम्। क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् ॥
स्वर रहित पद पाठकस्मिन् । अङ्गे । तप: । अस्य । अधि । तिष्ठति । कस्मिन् । अङ्गे । ऋतम् । अस्य । अधि । आऽहितम् । क्व । व्रतम् । क्व । श्रध्दा । अस्य । तिष्ठति । कस्मिन् । अङ्गे । सत्यम् । अस्य । प्रतिऽस्थितम् ॥७.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 1
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(अस्य) इसके (कस्मिन् अंगे) किस अंग में (तपः) ‘तप’ (अधि तिष्ठति) विराजता है ? (अस्य) और इसके (कस्मिन् अङ्गे) किस अङ्ग में (ऋतम् अधि आ-हितम्) ‘ऋत’ धरा है ? (अस्य) इसके किस भाग में (व्रतं तिष्ठति) व्रत बैठा है और किस अङ्ग में (श्रद्धा) श्रद्धा स्थित है ? और (अस्य) इसके (कस्मिन् अङ्गे) किस अङ्ग में (सत्यम् प्रतिष्ठितम्) सत्य प्रतिष्ठित है ?
टिप्पणी -
(प्र०) ‘तपोऽस्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें