अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 29
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - भुरिक्साम्नी बृहती
सूक्तम् - ओदन सूक्त
प्र॒त्यञ्चं॑ चैनं॒ प्राशी॑रपा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥
स्वर सहित पद पाठप्र॒त्यञ्च॑म् । च॒ । ए॒न॒म् । प्र॒ऽआशी॑: । अ॒पा॒ना: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥३.२९॥
स्वर रहित मन्त्र
प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥
स्वर रहित पद पाठप्रत्यञ्चम् । च । एनम् । प्रऽआशी: । अपाना: । त्वा । हास्यन्ति । इति । एनम् । आह ॥३.२९॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 29
विषय - विराट् प्रजापति का बार्हस्पत्य ओदन रूप से वर्णन।
भावार्थ -
(प्रत्यञ्चं च एनं प्राशीः) और यदि उसको अपने अभिमुख साक्षात् रूप में भोग करता है तो (एनम् आह) तो विद्वान् उस भोक्ता के प्रति कहा करता है कि (अपानाः त्वा हास्यन्ति इति) तुझ साक्षात् ओदन के भोक्ता को अपान परित्याग कर देंगे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें