अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 23
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः। अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ऽस्तु ते ॥
स्वर सहित पद पाठय: । अ॒स्य । वि॒श्वऽज॑न्मन: । ईशे॑ । विश्व॑स्य । चेष्ट॑त: । अन्ये॑षु । क्षि॒प्रऽध॑न्वने । तस्मै॑ । प्रा॒ण॒ । नम॑: । अ॒स्तु॒ । ते॒ ॥६.२३॥
स्वर रहित मन्त्र
यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः। अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥
स्वर रहित पद पाठय: । अस्य । विश्वऽजन्मन: । ईशे । विश्वस्य । चेष्टत: । अन्येषु । क्षिप्रऽधन्वने । तस्मै । प्राण । नम: । अस्तु । ते ॥६.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 23
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
(यः) जो (अस्य) इस (चेष्टतः विश्वस्य) विश्व, समस्त इस क्रियाशील विश्व के (विश्वजन्मनः) नाना प्रकार की उत्पत्ति पर (ईशे) सामर्थ्यवान् है, अथवा नाना प्रकार से उत्पन्न होने वाले इस क्रियाशील विश्व पर वश कर रहा है और (अन्येषु) अन्य प्राणियों में भी (क्षिप्रधन्वने) अति शीघ्रता से गति दे रहा है। हे (प्राण) हे महान् चैतन्य ! महा प्रभो (तस्मै ते नमः अस्तु) उस तेरे लिये हम नमस्कार करते हैं।
टिप्पणी -
‘क्षिप्रधन्वने’ शब्द से भव-शर्वसूक्त अथर्व ० ११। २। ७ में आये ‘अस्त्रा’ शब्द पर प्रकाश पड़ता है। ‘क्षिप्रं गच्छते, व्याप्नुवते’ इति सायणः।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें