अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 19
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयौ । ते॒ । बा॒हू इति॑ । ये इति॑ । दो॒षणी॒ इति॑ । यौ । अंसौ॑ । या । च॒ । ते॒ । क॒कुत् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१९॥
स्वर रहित मन्त्र
यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयौ । ते । बाहू इति । ये इति । दोषणी इति । यौ । अंसौ । या । च । ते । ककुत् । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 19
भाषार्थ -
(ते) तेरी (यौ) जो (बाहू) दो बाहू है. (ये) जो (दोषणी) बाहुओं के अग्रभाग है, (यौ) जो (अंसौ) दो हंसलिया है, (या च) और जो (ते ककुत्) तेरा ककुत् है, वे दाता के लिये आमिक्षा, क्षीर, सर्पिः और मधु (दुह्रताम्) दोहें, प्रदान करें।
टिप्पणी -
[अंसौ= Collar bones ।ककुत्=Hump] बाहू= महादेवः; दोषणो=त्वष्टा; और अर्यमा; अंसौ= मित्र और वरुण (अथर्व० ९।१२।(७)। ७)। ककुत्=वृहस्पतिः (अथर्व० ९।१२(७)।५)। ये व्रह्माण्ड-गौ के अङ्ग है।