अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 21
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यौ त॑ उ॒रू अ॑ष्ठी॒वन्तौ॒ ये श्रोणी॒ या च॑ ते भ॒सत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयौ । ते॒ । ऊ॒रू इति॑ । अ॒ष्ठी॒वन्तौ॑ । ये इति॑ । श्रोणी॒ इति॑ । या । च॒ । ते॒ । भ॒सत् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२१॥
स्वर रहित मन्त्र
यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयौ । ते । ऊरू इति । अष्ठीवन्तौ । ये इति । श्रोणी इति । या । च । ते । भसत् । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 21
भाषार्थ -
(ते) तेरे (यौ ऊरु) जो दो पट्ट [Thighs] है, (अष्ठीवन्तौ) दो घुटने हैं, (ये श्रोणी) जो दो चूतड़ अर्थात् कुल्हे [Hips] है, (या च) और जो (ते) तेरा (भसत्) जघन अर्थात् जननेन्द्रिय है वे (दात्रे) दाता के लिये आमिक्षा, क्षीर, सर्पिः और मधु (दुह्रताम्) दोहे, प्रदान करें।
टिप्पणी -
[ऊरू= बलम्; श्रोणी=व्रह्म च क्षत्रम् च; (अथर्व० ९।१२(७)।६)। भसत्= इन्द्राणी (अथर्व० ९।१२(७)।८)]।