अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 17
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठय: । ते॒ । प्ला॒शि: । य: । व॒नि॒ष्ठु: । यौ । कु॒क्षी इति॑ । यत् । च॒ । चर्म॑ । ते॒ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१७॥
स्वर रहित मन्त्र
यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठय: । ते । प्लाशि: । य: । वनिष्ठु: । यौ । कुक्षी इति । यत् । च । चर्म । ते । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 17
भाषार्थ -
(यः) जो (ते) तेरा (प्लाशिः) मांस (Flesh) है (यः) जो (वनिष्ठुः) बड़ी आन्त का अन्तिम किनारा है, (यौ) जो (कुक्षी) दो कोखें, (यत् च) और जो (ते) तेरा (चर्म) चमड़ा है, वे (दात्रे) दाता के लिये आमिक्षा, क्षीर, सर्पिः, तथा मधु (दुह्रताम्) प्रदान करें।
टिप्पणी -
[प्लाशयः= पर्वताः; वनिष्ठुः= इरा (अन्नः) इरा अन्ननाम (निघं० २। ७); कृक्षिः=क्षुत् [भूख] (अथर्व० ९।१२(७)१२)। चर्म= विश्वव्यचाः। (९।१२(७)१२)। ये ब्रह्माण्डगौ के अवयव है]।