Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 11
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥

    स्वर सहित पद पाठ

    प॒र: । स: । अ॒स्तु॒ । त॒न्वा᳡ । तना॑ । च॒ । ति॒स्र: । पृ॒थि॒वी: । अ॒ध: । अ॒स्तु॒ । विश्वा॑: । प्रति॑ । शु॒ष्य॒तु॒ । यश॑: । अ॒स्य॒ । दे॒वा॒: । य: । मा॒ । दिवा॑ । दिप्स॑ति । य: । च॒ । नक्त॑म् ॥४.११॥


    स्वर रहित मन्त्र

    परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः। प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥

    स्वर रहित पद पाठ

    पर: । स: । अस्तु । तन्वा । तना । च । तिस्र: । पृथिवी: । अध: । अस्तु । विश्वा: । प्रति । शुष्यतु । यश: । अस्य । देवा: । य: । मा । दिवा । दिप्सति । य: । च । नक्तम् ॥४.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 11

    भाषार्थ -
    (सः) वह (तन्वा) निज शरीर से (च) और (तना) सन्तानों से (परः अस्तु) परे हो जाय, [अथवा] (विश्वाः) सब (तिस्रः पृथिवीः) तीन पृथिवियों से (अधः) नीचे (अस्तु) हो जाय तथा (अस्य) इसका (यशः) यश (प्रति शुष्यतु) सूख जाय, मिट जाय, (देवाः) हे साम्राज्य के दिव्य अधिकारियो ! (यः) जो (मा) मुझे (दिवा) दिन में (यः च) और जो (नक्तम्) रात में (दिप्सति) धोखा देना चाहता है, या मार देना चाहता है।

    इस भाष्य को एडिट करें
    Top