Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 17
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    8

    वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम्। यूपे॑न॒ यूप॑ऽआप्यते॒ प्रणी॑तोऽअ॒ग्निर॒ग्निना॑॥१७॥

    स्वर सहित पद पाठ

    वेद्या॑। वेदिः॑। सम्। आ॒प्य॒ते॒। ब॒र्हिषा॑। ब॒र्हिः। इ॒न्द्रि॒यम्। यूपे॑न। यूपः॑। आ॒प्य॒ते॒। प्रणी॑तः। प्रनी॑त इति॒ प्रऽनी॑तः। अ॒ग्निः। अ॒ग्निना॑ ॥१७ ॥


    स्वर रहित मन्त्र

    वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूपऽआप्यते प्रणीतोऽअग्निरग्निना ॥


    स्वर रहित पद पाठ

    वेद्या। वेदिः। सम्। आप्यते। बर्हिषा। बर्हिः। इन्द्रियम्। यूपेन। यूपः। आप्यते। प्रणीतः। प्रनीत इति प्रऽनीतः। अग्निः। अग्निना॥१७॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 17
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा विद्वद्भिर्वेद्या वेदिर्बर्हिषा बर्हिरिन्द्रियं समाप्यते, यूपेन यूपोऽग्निना प्रणीतोऽग्निराप्यते, तथैव यूयं साधनैः साधनानि सम्मेल्य सर्वं सुखामाप्नुत॥१७॥

    पदार्थः -
    (वेद्या) यज्ञसामग्र्या (वेदिः) यज्ञभूमिः (सम्) सम्यक् (आप्यते) प्राप्यते (बर्हिषा) महता पुरुषार्थेन (बर्हिः) वृद्धम् (इन्द्रियम्) धनम् (यूपेन) मिश्रिता मिश्रितेन व्यवहारेण (यूपः) मिश्रितो व्यवहारयत्नोदयः (आप्यते) (प्रणीतः) प्रकृष्टतया सम्मिलितः (अग्निः) पावकः (अग्निना) विद्युदादिना॥१७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः साधकतमेन साधनेन साध्यं कार्य्यं साद्धुमिच्छन्ति, त एव सिद्धसाध्या जायन्ते॥१७॥

    इस भाष्य को एडिट करें
    Top