Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 2
    ऋषिः - भारद्वाज ऋषिः देवता - सोमो देवता छन्दः - स्वराडनुष्टुप् स्वरः - गान्धारः
    5

    परी॒तो षि॑ञ्चता सु॒तꣳ सोमो॒ यऽउ॑त्त॒मꣳ ह॒विः। द॒ध॒न्वा यो नर्यो॑ऽअ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः॥२॥

    स्वर सहित पद पाठ

    परि॑। इ॒तः। सि॒ञ्च॒त॒। सु॒तम्। सोमः॑। यः। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। ह॒विः। द॒ध॒न्वान्। यः। नर्य्यः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। आ। सु॒षाव॑। सु॒षावेति॑ सु॒ऽसाव॑। सोम॑म्। अद्रि॑भि॒रित्यद्रि॑ऽभिः ॥२ ॥


    स्वर रहित मन्त्र

    परीतो षिञ्चता सुतँ सोमो यऽउत्तमँ हविः । दधन्वा यो नर्या अप्स्वन्तरा सुषाव सोममद्रिभिः ॥


    स्वर रहित पद पाठ

    परि। इतः। सिञ्चत। सुतम्। सोमः। यः। उत्तममित्युत्ऽतमम्। हविः। दधन्वान्। यः। नर्य्यः। अप्स्वित्यप्ऽसु। अन्तः। आ। सुषाव। सुषावेति सुऽसाव। सोमम्। अद्रिभिरित्यद्रिऽभिः॥२॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 2
    Acknowledgment

    अन्वयः - हे मनुष्याः! य य उत्तमं हविः सोम इतः स्याद्, यो नर्यो दधन्वानप्स्वन्तरासुषाव तमद्रिभिः सुतं सोमं यूयं परिसिञ्चत॥२॥

    पदार्थः -
    (परि) सर्वतः (इतः) प्राप्तः (सिञ्चत) अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (सुतम्) निष्पन्नम् (सोमः) प्रेरको विद्वान् (यः) (उत्तमम्) (हविः) अत्तुमर्हम् (दधन्वान्) धरन् सन् (यः) (नर्यः) नरेषु साधुः (अप्सु) जलेषु (अन्तः) मध्ये (आ) (सुषाव) निष्पादयेत् (सोमम्) ओषधिसारम् (अद्रिभिः) मेघैः॥२॥

    भावार्थः - मनुष्यैरुत्तमा ओषधीर्जले संस्थाप्य मथित्वाऽऽसवं निस्सार्यानेन यथायोग्यं जाठराग्निं सेवित्वा बलारोग्ये वर्द्धनीये॥२॥

    इस भाष्य को एडिट करें
    Top